|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.95. अध्यायः 095
Mahabharata - Adi Parva - Chapter Topics
शकुन्तलायाः पुत्रोत्पत्तिः॥ 1 ॥ तस्य सर्वदमनेतिनामप्राप्तिः॥ 2 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-95-0x(600)(4124)
प्रतिज्ञाय च दुष्यन्ते प्रतियाते दिने दिने।
`गर्भश्च ववृधे तस्यां राजपुत्र्यां महात्मनः॥' 1-95-1(4125)
शकुन्तला चिन्तयन्ती राजानं कार्यगौरवात्।
दिवारात्रमनिद्रैव स्नानभोजनवर्जिता॥ 1-95-2(4126)
राजप्रेषणिका विप्राश्चतुरङ्गबलान्विताः।
अद्य श्वो वा परश्वो वा समायान्तीति निस्चिता॥ 1-95-3(4127)
दिनान्पक्षानृतून्मासानयनानि च सर्वशः।
गण्यमानानि वर्षाणि व्यतीयुस्त्रीणि भारत॥ 1-95-4(4128)
त्रिषु वर्षेषु पूर्णेषु ऋषेर्वचनगौरवात्।
ऋषिपत्न्यः सुबहुशो हेतुमद्वाक्यमब्रुवन्॥ 1-95-5(4129)
ऋषिपत्न्य ऊचुः। 1-95-6x(601)
शृणु भद्रे लोकवृत्तं श्रुत्वा यद्रोचते तव।
तत्कुरुष्व हितं देवि नावमान्यं गुरोर्वचः॥ 1-95-6(4130)
देवानां दैवतं विष्णुर्विप्राणामग्निर्ब्रह्म च।
नारीणां दैवतं भर्ता लोकानां ब्राह्मणो गुरुः॥ 1-95-7(4131)
सूतिकाले प्रसूष्वेति भगवांस्ते पिताऽब्रवीत्।
करिष्यामीति कर्तव्यं तदा ते सुकृतं भवेत्॥ 1-95-8(4132)
वैशम्पायन उवाच। 1-95-9x(602)
पत्नीनां वचनं श्रुत्वा साधु साध्वित्यचिन्तयत्।'
गर्भं सुषाव वामोरूः कुमारममितौजसम्॥ 1-95-9(4133)
त्रिषु वर्षेषु पूर्णेषु प्राजायत शकुन्तला।
रूपौदार्यगुणोपेतं दौष्यन्तिं जनमेजय॥ 1-95-10(4134)
`जाते' तस्मिन्नन्तरिक्षात्पुष्पवृष्टिः पपात ह।
देवदुन्दुभयो नेदुर्ननृतुश्चाप्सरोगणाः॥ 1-95-11(4135)
गायद्भिर्मधुरं तत्र देवैः शक्रोऽभ्युवाच ह।
शकुन्तले तव सुतश्चक्रवर्ती भविष्यति॥ 1-95-12(4136)
बलं तेजश्च रूपं च न समं भुवि केनचित्।
आहर्ता वाजिमेधस्य शतसङ्ख्यस्य पौरवः॥ 1-95-13(4137)
अनेकारपि साहस्रै राजसूयादिभिर्मखैः।
स्वार्थं ब्राह्मणसात्कृत्वा दक्षिणाममितां ददत्॥ 1-95-14(4138)
देवतानां वचः श्रुत्वा कण्वाश्रमनिवासिनः।
सभाजयन्तः कण्वस्य सुतां सर्वे महर्षयः॥ 1-95-15(4139)
शकुन्तला च तच्छ्रुत्वा परं हर्षमवाप सा।
द्विजानाहूय मुनिभिः सत्कृत्य च महायशाः।' 1-95-16(4140)
जातकर्मादिसंस्कारं कण्वः पुण्यवतां वरः।
तस्याथ कारयामास वर्धमानस्य चासकृत्॥ 1-95-17(4141)
यथाविधि यथान्यायं क्रियाः सर्वास्त्वकारयत्।
दन्तैः शुक्लैः शिखरिभिःसिंहसंहननोऽभवत्॥ 1-95-18(4142)
चक्राङ्कितकरः श्रीमान्स्वयं विष्णुरिवापरः।
`चतुष्किष्कुर्महातेजा महामूर्धा महाबलः॥' 1-95-19(4143)
कुमारो देवगर्भाभः स तत्राशु व्यवर्धत।
`ऋषेर्भयात्तु दुष्यन्तः स्मरन्नैवाह्वयत्तदा॥ 1-95-20(4144)
गते काले तु महति न सस्मार तपोधनाम्।'
षड्वर्षेषु ततो बालः कण्वाश्रमपदं प्रति॥ 1-95-21(4145)
व्याघ्रान्सिंहान्वराहांश्च वृकांश्च महिषांस्तथा।
`ऋक्षांश्चाभ्यहनद्व्यालान्पद्भ्यामाश्रमपीडकान्॥ 1-95-22(4146)
बलाद्भुजाभ्यां संगृह्य बलवान्संनियम्य च।'
बद्ध्वा वृक्षेषु दौष्यन्तिराश्रमस्य समन्ततः॥ 1-95-23(4147)
आरुरोह द्रुमांश्चैव क्रीडन्स्म परिधावति।
`वनं च लोडयामास सिंहव्याघ्रगणैर्वृतम्॥ 1-95-24(4148)
ततश्च राक्षसान्सर्वान्पिशाचांश्च रिपून्रणे।
मुष्टियुद्धेन तान्हत्वा ऋषीनाराधयत्तदा॥ 1-95-25(4149)
कश्चिद्दितिसुतस्तं तु हन्तुकामो महाबलः।
वध्यमानांस्तु दैतेयानमर्षी तं समभ्ययात्॥ 1-95-26(4150)
तमागतं प्रहस्यैव बाहुभ्यां परिगृह्य च।
दृढं चाबध्य बाहुभ्यां पीडयामास तं तदा॥ 1-95-27(4151)
मर्दितो न शशाकास्मान्मोचितुं बलवत्तया।
प्राक्रोशद्भैरवं तत्र द्वारेभ्यो निःसृतं त्वसृक्॥ 1-95-28(4152)
तेन शब्देन वित्रस्ता मृगाः सिंहादयो गणाः।
सुस्रुवुश्च शकृन्मूत्रमाश्रमस्थाश्च सुस्रुवुः॥ 1-95-29(4153)
निरसुं जानुभिः कृत्वा विससर्ज च सोऽपतत्।
तद्दृष्ट्वा विस्मयं जग्मुः कुमारस्य विचेष्टितम्॥ 1-95-30(4154)
नित्यकालं वध्यमाना दैतेया राक्षसैः सह।
कुमारस्य भयादेव नैव जग्मुस्तदाश्रमम्॥' 1-95-31(4155)
ततोऽस्य नाम चक्रुस्ते कण्वाश्रमनिवासिनः।
कण्वेन सहिताः सर्वे दृष्ट्वा कर्मातिमानुषम्॥ 1-95-32(4156)
अस्त्वयं सर्वदमनः सर्वं हि दमयत्यसौ।
स सर्वदमनो नाम कुमारः समपद्यत॥ 1-95-33(4157)
विक्रमेणौजसा चैव बलेन च समन्वितः।
`अप्रेषयति दुष्यन्ते महिष्यास्तनयस्य च॥ 1-95-34(4158)
पाण्डुभावपरीताङ्गीं चिन्तया समभिप्लुताम्।
लम्बालकां कृशां दीनां तथा मलिनवाससम्॥ 1-95-35(4159)
`शकुन्तलां च संप्रेक्ष्य प्रदध्यौ स मुनिस्तदा।
शास्त्राणि सर्ववेदाश्च द्वादशाब्दस्य चाभवन्'॥ ॥ 1-95-36(4160)
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि पञ्चनवतितमोऽध्यायः॥ 95 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|